Ram Raksha Stotra Marathi Best 2024|रामरक्षास्तोत्रम्

Ram Raksha Stotra Marathi: श्रीराम रक्षास्तोत्र हे आपल्या जीवनातील सर्व संकटांपासून रक्षण करण्यासाठी एक अत्यंत प्रभावी स्तोत्र आहे. राम भक्तीच्या मार्गावर चालताना भक्तांना आत्मबल, शांती, आणि सुरक्षितता मिळवण्यासाठी हे स्तोत्र नियमित पठण केले जाते.

Ram Raksha Stotra
Ram Raksha Stotra

Ram Raksha Stotra चे रचनाकार ऋषी बुधकौशिक आहेत. त्यांनी या स्तोत्राची रचना आपल्या स्वप्नात श्रीरामांचे दर्शन घेतल्यानंतर केली. हे स्तोत्र भक्तांना संकटांपासून संरक्षण देण्यासाठी ओळखले जाते.

**रामरक्षास्तोत्रम् (Ram Raksha Stotra)**

अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः । 

श्रीसीता रामचंद्रो देवता । 

अनुष्टुप् छन्दः । 

सीता शक्तिः । 

श्रीमान हनुमान कीलकम् । 

श्रीरामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ।

॥ अथ ध्यानम् ॥ 

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं । 

पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌ ॥ 

वामाङ्कारूढ सीतामुखकमलमिलल्लोचनं नीरदाभं । 

नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचंद्रम्‌ ॥

॥ स्तोत्रम् ॥ 

चरितं रघुनाथस्य शतकोटि प्रविस्तरम्‌ । 

एकैकमक्षरं पुंसां महापातक नाशनम्‌ ॥ 1 ॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्‌ । 

जानकीलक्ष्मणोपेतं जटामुकुट मण्डितम्‌ ॥ 2 ॥

सासितूण धनुर्बाण पाणिं नक्तं चरान्तकम्‌ । 

स्वलीलया जगत्त्रातुं आविर्भूतमजं विभुम्‌ ॥ 3 ॥

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम्‌ । 

शिरो मे राघवः पातु भालं दशरथात्मजः ॥ 4 ॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती । 

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ 5 ॥

जिव्हां विद्यानिधिः पातु कण्ठं भरतवन्दितः । 

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ 6 ॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित्‌ । 

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥ 7 ॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः । 

ऊरू रघूत्तमः पातु रक्षःकुलविनाशकृत्‌ ॥ 8 ॥

जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तकः । 

पादौ बिभीषणश्रीदः पातु रामोऽखिलं वपुः ॥ 9 ॥

एतां रामबलोपेतां रक्षां यः सुकृती पठेत्‌ । 

स चिरायुः सुखी पुत्री विजयी विनयी भवेत्‌ ॥ 10 ॥

पातालभूतलव्योम चारिणश्छद्मचारिणः । 

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ 11 ॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्‌ । 

नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥ 12 ॥

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्‌ । 

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥ 13 ॥

वज्रपंजरनामेदं यो रामकवचं स्मरेत्‌ । 

अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम्‌ ॥ 14 ॥

आदिष्टवान्‌ यथा स्वप्ने रामरक्षामिमां हरः । 

तथा लिखितवान्प्रातः प्रबुद्धो बुधकौशिकः ॥ 15 ॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम्‌ । 

अभिरामस्त्रिलोकानां रामः श्रीमान् स नः प्रभुः ॥ 16 ॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । 

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ 17 ॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । 

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ 18 ॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम्‌ । 

रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥ 19 ॥

आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्ग सङ्गिनौ । 

रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदा गच्छतां ॥ 20 ॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा । 

गच्छन्मनोरथोस्माकं रामः पातु सलक्ष्मणः ॥ 21 ॥

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली । 

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥ 22 ॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः । 

जानकीवल्लभः श्रीमानप्रमेय पराक्रमः ॥ 23 ॥

इत्येतानि जपेन्नित्यं मद्भक्तः श्रद्धयान्वितः । 

अश्वमेधाधिकं पुण्यं सम्पद्येत न संशयः ॥ 24 ॥

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम्‌ । 

स्तुवन्ति नामभिर्दिव्यैः न ते संसारिणो नराः ॥ 25 ॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुंदरम्‌ । 

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्‌ ॥ 26 ॥

राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिम्‌ । 

वन्दे लोकाभिरामं रघुकुलतिलकं राघवम्‌ रावणारिम्‌ ॥ 27 ॥

रामाय रामभद्राय रामचंद्राय वेधसे । 

रघुनाथाय नाथाय सीतायाः पतये नमः ॥ 28 ॥

श्रीराम राम रघुनन्दन राम राम । 

श्रीराम राम भरताग्रज राम राम ॥ 29 ॥

श्रीराम राम रणकर्कश राम राम । 

श्रीराम राम शरणं भव राम राम ॥ 30 ॥

श्रीरामचंद्रचरणौ मनसा स्मरामि । 

श्रीरामचंद्रचरणौ वचसा गृह्णामि । 

श्रीरामचंद्रचरणौ शिरसा नमामि । 

श्रीरामचंद्रचरणौ शरणं प्रपद्ये ॥ 31 ॥

माता रामो मत्पिता रामचंद्रः । 

स्वामी रामो मत्सखा रामचंद्रः । 

सर्वस्वं मे रामचंद्रो दयालुः । 

नान्यं जाने नैव जाने न जाने ॥ 32 ॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । 

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम्‌ ॥ 33 ॥

लोकाभिरामं रणरङ्गधीरम्‌ राजीवनेत्रं रघुवंशनाथम्‌ । 

कारुण्यरूपं करुणाकरं तम्‌ श्रीरामचंद्रं शरणं प्रपद्ये ॥ 34 ॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्‌ । 

वातात्मजं वानरयूथमुख श्रीरामदूतं शरणं प्रपद्ये ।।34।।

कूजन्तं रामरामेति मधुरं मधुराक्षरम ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ।।35।।

आपदामपहर्तारं दातारं सर्वसम्पदाम ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम ।।36।।

भर्जनं भवबीजानामर्जनं सुखसम्पदाम ।

तर्जनं यमदूतानां रामरामेति गर्जनम ।।37।।

रामो राजमणि: सदा विजयते रामं रमेशं भजे,

रामेणाभिहता निशाचरचमू, रामाय तस्मै नम: ।

रामान्नास्ति परायणं परतरं रामस्य दासोsस्म्यहं,

रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ।।38।।

राम रामेति रामेति रमे रामे मनोरमे ।

सहस्त्र नाम तत्तुल्यं रामनाम वरानने ।।39।।

Ram Raksha Stotra

Ram Raksha Stotra

Hanuman Chalisa Marathi वाचण्यासाठी या लिंकवर क्लिक करा: https://marathireader.com/hanuman-chalisa-lyrics-marathi/#more-573

Good Morning Quotes marathi वाचण्यासाठी येथे क्लिक करा: https://marathireader.com/good-morning-quotes-marathi-shubh-sakal/#more-553